Sukta 1.120
युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् । ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् । ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
yuváṃ hyā́staṃ mahó rán yuváṃ vā yán niráta-taṃsatam | tā́ no vasū su-gópā syātam pā́taṃ no vṛ́kādaghāyóḥ ||
You two are indeed the delight of the Vast; you two are they who draw us out from constriction. Be for us, O generous ones, good guardians; protect us from the wolf and from the doer of harm.
यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् । ता । नः॒ । व॒सू॒ इति॑ । सु॒ऽगो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका॑त् । अ॒घ॒ऽयोः ॥युवम् । हि । आस्तम् । महः । रन् । युवम् । वा । यत् । निःअततंसतम् । ता । नः । वसू इति । सुगोपा । स्यातम् । पातम् । नः । वृकात् । अघयोः ॥yuvam | hi | āstam | mahaḥ | ran | yuvam | vā | yat | niḥ-atataṃsatam | tā | naḥ | vasūiti | su-gopā | syātam | pātam | naḥ | vṛkāt | agha-yoḥ