Sukta 1.120
प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् । प्रैषयुर्न विद्वान् ॥
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् । प्रैष॒युर्न वि॒द्वान् ॥
prá yā́ ghóṣe bhṛ́gavāṇe ná śóbhe yayā́ vācā́ yájati pajriyó vāṃ | práiṣayúr ná vidvā́n ||
That utterance which shines forth in the cry like a Bhṛgu-fire—by that speech the Pajriya offers to you. Yet he is like one who urges forward without knowledge (unless you make the word luminous within him).
प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् । प्र । इ॒ष॒ऽयुः । न । वि॒द्वान् ॥प्र । या । घोषे । भृगवाणे । न । शोभे । यया । वाचा । यजति । पज्रियः । वाम् । प्र । इषयुः । न । विद्वान् ॥pra | yā | ghoṣe | bhṛgavāṇe | na | śobhe | yayā | vācā | yajati | pajriyaḥ | vām | pra | iṣa-yuḥ | na | vidvān