Sukta 1.120
वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा । पातं च सह्यसो युवं च रभ्यसो नः ॥
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा । पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
ví pṛcchāmi pākyā̀ na devā́n vaṣaṭ-kṛtasyādbhūtásya dasrā | pātáṃ ca sahyáso yuváṃ ca rábhya so naḥ ||
I ask you plainly, not as one questioning gods from ignorance: O wondrously skilled ones, in the cry of the consecrated call—be you both our protectors in what must be endured, and swift helpers in what must be seized.
वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ । पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥वि । पृच्छामि । पाक्या । न । देवान् । वषट्कृतस्य । अद्भुतस्य । दस्रा । पातम् । च । सह्यसः । युवम् । च । रभ्यसः । नः ॥vi | pṛcchāmi | pākyā | na | devān | vaṣaṭ-kṛtasya | adbhutasya | dasrā | pātam | ca | sahyasaḥ | yuvam | ca | rabhyasaḥ | naḥ