Sukta 1.12
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भव ॥
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ । तस्य॑ स्म प्रावि॒ता भ॑व ॥
yás tvām agne havíṣ-patir dūtáṃ deva sapáryati | tásya sma prā́-avitā bhava ||
Whoever, O Agni, the lord of the offering, serves you as the divine messenger—of him indeed become the forward protector and helper on the path.
यः । त्वाम् । अ॒ग्ने॒ । ह॒विःऽप॑तिः । दू॒तम् । दे॒व॒ । स॒प॒र्यति॑ । तस्य॑ । स्म॒ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥यः । त्वाम् । अग्ने । हविःपतिः । दूतम् । देव । सपर्यति । तस्य । स्म । प्रअविता । भव ॥yaḥ | tvām | agne | haviḥ-patiḥ | dūtam | deva | saparyati | tasya | sma | pra-avitā | bhava