Sukta 1.12
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यः ॥
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ । ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥
agnínāgníḥ sám idhyate kavír gṛhá-patir yúvā | havyavā́ḍ juhvā́-asyaḥ ||
By Agni, Agni is kindled: the seer-flame, the young lord of the dwelling; the strong carrier of the offering, whose mouth is the ladle—receiving and giving in one act of consecration.
अ॒ग्निना॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । क॒विः । गृ॒हऽप॑तिः । युवा॑ । ह॒व्य॒ऽवाट् । जु॒हुऽआ॑स्यः ॥अग्निना । अग्निः । सम् । इध्यते । कविः । गृहपतिः । युवा । हव्यवाट् । जुहुआस्यः ॥agninā | agniḥ | sam | idhyate | kaviḥ | gṛha-patiḥ | yuvā | havya-vāṭ | juhu-āsyaḥ