Sukta 1.119
अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् । स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् । स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥
ágacchataṃ kṛ́pamāṇaṃ parāváti pitúḥ svásya tyájasā ní-bādhitam | svàrvatīr itá ūtī́r yuvór áha citrā́ abhī́ke abhavann abhiṣṭáyaḥ ||
You two went to the one who cried for help in the far distance, pressed down by the overpowering force of his own father. And indeed your help, full of the Light-world, became near and wonderfully effective—true fulfillments at close hand.
अग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् । स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥अगच्छतम् । कृपमाणम् । परावति । पितुः । स्वस्य । त्यजसा । निबाधितम् । स्वःवतीः । इतः । ऊतीः । युवोः । अह । चित्राः । अभीके । अभवन् । अभिष्टयः ॥agacchatam | kṛpamāṇam | parāvati | pituḥ | svasya | tyajasā | ni-bādhitam | svaḥ-vatīḥ | itaḥ | ūtīḥ | yuvoḥ | aha | citrāḥ | abhīke | abhavan | abhiṣṭayaḥ