Sukta 1.119
युवं वन्दनं निॠतं जरण्यया रथं न दस्रा करणा समिन्वथः । क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥
यु॒वं वन्द॑नं॒ निॠ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः । क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
yuváṃ vándanaṃ nír-ṛtaṃ jaraṇyáyā ráthaṃ ná dasrā karaṇā sám invathaḥ | kṣétrād ā́ vípraṃ janatho vipanyáyā prá vām átra vidhaté daṃsánā bhuvat ||
You two set Vandana free from the realm of dissolution, as craftsmen refit a chariot for movement; you bring forth the seer from the field by a wondrous power. May your acts of skill be manifest here for the worshipper who labours to set the rite within him.
यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ । क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥युवम् । वन्दनम् । निःऋतम् । जरण्यया । रथम् । न । दस्रा । करणा । सम् । इन्वथः । क्षेत्रात् । आ । विप्रम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत् ॥yuvam | vandanam | niḥ-ṛtam | jaraṇyayā | ratham | na | dasrā | karaṇā | sam | invathaḥ | kṣetrāt | ā | vipram | janathaḥ | vipanyayā | pra | vām | atra | vidhate | daṃsanā | bhuvat