Sukta 1.119
उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति । युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति । यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिर॒: प्रति॑ वा॒मश्व्यं॑ वदत् ॥
utá syā́ vāṃ mádhuman-mákṣikā arapat máde sómasyauśijó huvanyati | yuváṃ dadhī́co mánā ā́ vivāsatho 'thā́ śíraḥ práti vām áśvyaṃ vadat ||
And that honey-bearing bee of yours comes humming in the ecstasy of Soma; the son of Uśij calls you. You two drew the mind of Dadhīci into a bright welcome; then the horse-head spoke back to you (revealing the secret).
उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ । यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥उत । स्या । वाम् । मधुमत् । मक्षिका । अरपत् । मदे । सोमस्य । औशिजः । हुवन्यति । युवम् । दधीचः । मनः । आ । विवासथः । अथ । शिरः । प्रति । वाम् । अश्व्यम् । वदत् ॥uta | syā | vām | madhu-mat | makṣikā | arapat | made | somasya | auśijaḥ | huvanyati | yuvam | dadhīcaḥ | manaḥ | ā | vivāsathaḥ | atha | śiraḥ | prati | vām | aśvyam | vadat