Sukta 1.119
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये । युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये । यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥
yuváṃ rebháṃ pári-sūter uruṣyatho hiména gharmáṃ pári-taptam átraye | yuváṃ śayór avasáṃ pipyathur gávi prá dīrghéṇa vándanas tā́ri ā́yuṣā ||
You two (Aśvins) protect Rebha from the enclosing pressure; and for Atri you temper with coolness the heat that had been over-kindled. You two make swell and increase the saving help of Śayu; and you cause Vandana to pass beyond (his limitation) into a long life in the luminous field (of the Cow).
यु॒वम् । रे॒भम् । परि॑ऽसूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन॑ । घ॒र्मम् । परि॑ऽतप्तम् । अत्र॑ये । यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि॑ । प्र । दी॒र्घेण॑ । वन्द॑नः । ता॒रि॒ । आयु॑षा ॥युवम् । रेभम् । परिसूतेः । उरुष्यथः । हिमेन । घर्मम् । परितप्तम् । अत्रये । युवम् । शयोः । अवसम् । पिप्यथुः । गवि । प्र । दीर्घेण । वन्दनः । तारि । आयुषा ॥yuvam | rebham | pari-sūteḥ | uruṣyathaḥ | himena | gharmam | pari-taptam | atraye | yuvam | śayoḥ | avasam | pipyathuḥ | gavi | pra | dīrgheṇa | vandanaḥ | tāri | āyuṣā