Sukta 1.119
युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ । यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥
यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ । या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मव॑: ॥
yuváṃ bhujyúṃ bhurámāṇaṃ víbhir gatáṃ svayúktibhir niváhantā pitṛ́bhya ā́ | yāsiṣṭáṃ vártír vṛṣaṇā vijényam divódāsāya máhi ceti vām ávaḥ ||
You two carried Bhujyu—tossed and wandering, gone amid the waves—bringing him with your self-yoked powers back toward the Fathers. You two have journeyed on a victorious course, O strong ones; for Divodāsa your great help becomes clearly manifest.
यु॒वम् । भु॒ज्युम् । भु॒रमा॑णम् । विऽभिः॑ । ग॒तम् । स्वयु॑क्तिऽभिः । नि॒ऽवह॑न्ता । पि॒तृऽभ्यः॑ । आ । या॒सि॒ष्टम् । व॒र्तिः । वृ॒ष॒णा॒ । वि॒ऽजे॒न्य॑म् । दिवः॑ऽदासाय । महि॑ । चे॒ति॒ । वा॒म् । अवः॑ ॥युवम् । भुज्युम् । भुरमाणम् । विभिः । गतम् । स्वयुक्तिभिः । निवहन्ता । पितृभ्यः । आ । यासिष्टम् । वर्तिः । वृषणा । विजेन्यम् । दिवःदासाय । महि । चेति । वाम् । अवः ॥yuvam | bhujyum | bhuramāṇam | vi-bhiḥ | gatam | svayukti-bhiḥ | ni-vahantā | pitṛ-bhyaḥ | ā | yāsiṣṭam | vartiḥ | vṛṣaṇā | vi-jenyam | divaḥ-dāsāya | mahi | ceti | vām | avaḥ