Sukta 1.119
सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥
सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ । यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥
sáṃ yán mitháḥ paspṛdhānā́so ágmat śubhé makhā́ ámitā jā́yavo ráṇe | yuvór áha praváṇe cékitē rátho yád aśvinā́ váhathaḥ sūrím ā́ váram ||
When the contenders come together, striving with one another, in the fair contest—unmeasured energies seeking victory in the battle—then indeed your chariot becomes manifest on the slope, O Aśvins, when you carry the hero toward the choice boon.
सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ । यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥सम् । यत् । मिथः । पस्पृधानासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे । युवोः । अह । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सूरिम् । आ । वरम् ॥sam | yat | mithaḥ | paspṛdhānāsaḥ | agmata | śubhe | makhāḥ | amitāḥ | jāyavaḥ | raṇe | yuvoḥ | aha | pravaṇe | cekite | rathaḥ | yat | aśvinā | vahathaḥ | sūrim | ā | varam