Sukta 1.119
ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्त्समयन्त आ दिशः । स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिश॑: । स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥
ūrdhvā́ dhītíḥ práty asya práyā́mány ádhāyi śásmant sám ayante ā́ díśaḥ | svádāmi gharmáṃ práti yanty ūtáya ā́ vām ūrjā́nī rátham aśvinā́ aruhat ||
The thought rises upward and is set in front upon this path of advance; the directions gather together toward the praise. I make the warm offering sweet; the helps move toward it. And Energy herself mounts your chariot, O Aśvins.
ऊ॒र्ध्वा । धी॒तिः । प्रति॑ । अ॒स्य॒ । प्रऽया॑मनि । अधा॑यि । शस्म॑न् । सम् । अ॒य॒न्ते॒ । आ । दिशः॑ । स्वदा॑मि । घ॒र्मम् । प्रति॑ । य॒न्ति॒ । ऊ॒तयः॑ । आ । वा॒म् । ऊ॒र्जानी॑ । रथ॑म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥ऊर्ध्वा । धीतिः । प्रति । अस्य । प्रयामनि । अधायि । शस्मन् । सम् । अयन्ते । आ । दिशः । स्वदामि । घर्मम् । प्रति । यन्ति । ऊतयः । आ । वाम् । ऊर्जानी । रथम् । अश्विना । अरुहत् ॥ūrdhvā | dhītiḥ | prati | asya | pra-yāmani | adhāyi | śasman | sam | ayante | ā | diśaḥ | svadāmi | gharmam | prati | yanti | ūtayaḥ | ā | vām | ūrjānī | ratham | aśvinā | aruhat