Sukta 1.119
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥
आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे । स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रय॑: ॥
ā́ vāṃ ráthaṃ purumāyáṃ manojúvaṃ jīrā́śvaṃ yajñíyaṃ jīváse huve | sahásraketuṃ vanínaṃ śatádvasuṃ śruṣṭī́vānaṃ varivodhā́m abhí práyaḥ ||
I call for your chariot, O you two—full of many powers, driven by the mind, with swift horses, fit for sacrifice—so that we may truly live. Thousand-bannered, winning, rich in manifold plenitudes, hearkening, widening the paths—come toward our offering.
आ । वा॒म् । रथ॑म् । पु॒रु॒ऽमा॒यम् । म॒नः॒ऽजुव॑म् । जी॒रऽअ॑श्वम् । य॒ज्ञिय॑म् । जी॒वसे॑ । हु॒वे॒ । स॒हस्र॑ऽकेतुम् । व॒निन॑म् । श॒तत्ऽव॑सुम् । श्रु॒ष्टी॒ऽवान॑म् । व॒रि॒वः॒ऽधाम् । अ॒भि । प्रयः॑ ॥आ । वाम् । रथम् । पुरुमायम् । मनःजुवम् । जीरअश्वम् । यज्ञियम् । जीवसे । हुवे । सहस्रकेतुम् । वनिनम् । शतत्वसुम् । श्रुष्टीवानम् । वरिवःधाम् । अभि । प्रयः ॥ā | vām | ratham | puru-māyam | manaḥ-juvam | jīra-aśvam | yajñiyam | jīvase | huve | sahasra-ketum | vaninam | śatat-vasum | śruṣṭī-vānam | varivaḥ-dhām | abhi | prayaḥ