Sukta 1.118
युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् । जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥
यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व॑म् । जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व॑ङ्गम् ॥
yuváṃ śvetáṃ pédava índrajūtam ahihánam aśvinā́ adattam áśvam | johū́tram aryó abhíbhūtim ugráṃ sahasrasā́ṃ vṛ́ṣaṇaṃ vīḷváṅgam ||
You two, O Aśvins, gave to Pedu the white horse—impelled by Indra, a slayer of the serpent-forces. A strong overmastering power, fierce, winning a thousand, virile, with firm limbs—fit to carry the call of the journey.
यु॒वम् । श्वे॒तम् । पे॒दवे॑ । इन्द्र॑ऽजूतम् । अ॒हि॒ऽहन॑म् । अ॒श्वि॒ना॒ । अ॒द॒त्त॒म् । अश्व॑म् । जो॒हूत्र॑म् । अ॒र्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् । स॒ह॒स्र॒ऽसाम् । वृष॑णम् । वी॒ळुऽअ॑ङ्गम् ॥युवम् । श्वेतम् । पेदवे । इन्द्रजूतम् । अहिहनम् । अश्विना । अदत्तम् । अश्वम् । जोहूत्रम् । अर्यः । अभिभूतिम् । उग्रम् । सहस्रसाम् । वृषणम् । वीळुअङ्गम् ॥yuvam | śvetam | pedave | indra-jūtam | ahi-hanam | aśvinā | adattam | aśvam | johūtram | aryaḥ | abhi-bhūtim | ugram | sahasra-sām | vṛṣaṇam | vīḷu-aṅgam