Sukta 1.118
युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् । युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥
यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् । यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षु॒: प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥
yuvám atráye ’ávānītāya táptam ūŕjam omā́nam aśvināv adhattam | yuváṃ kaṇvā́yā́piriptāya cákṣuḥ práty adhattam suṣṭutíṃ jujuṣāṇā́ ||
You two, O Aśvins, established for Atri—who had been cast down—the heated strength and the sustaining plenitude. And you two set back the sight for Kaṇva, uninjured and intact, accepting well-formed praise.
यु॒वम् । अत्र॑ये । अव॑ऽनीताय । त॒प्तम् । ऊर्ज॑म् । ओ॒मान॑म् । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । यु॒वम् । कण्वा॑य । अपि॑ऽरिप्ताय । चक्षुः॑ । प्रति॑ । अ॒ध॒त्त॒म् । सु॒ऽष्टु॒तिम् । जु॒जु॒षा॒णा ॥युवम् । अत्रये । अवनीताय । तप्तम् । ऊर्जम् । ओमानम् । अश्विनौ । अधत्तम् । युवम् । कण्वाय । अपिरिप्ताय । चक्षुः । प्रति । अधत्तम् । सुष्टुतिम् । जुजुषाणा ॥yuvam | atraye | ava-nītāya | taptam | ūrjam | omānam | aśvinau | adhattam | yuvam | kaṇvāya | api-riptāya | cakṣuḥ | prati | adhattam | su-ṣṭutim | jujuṣāṇā