Sukta 1.118
उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः । निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥
उद्वन्द॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः । निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नम् ॥
úd vándanam airataṁ daṁsanā́bhir úd rebháṁ dasrā vṛṣaṇā śácībhiḥ | níṣ ṭaugryáṁ pārayathaḥ samudrā́t púnar cyávānaṁ cakrathur yúvānam ||
You raised up Vandanā by your powers of skill; you lifted up Rebha, O wondrous strong ones, by your efficacious energies. You brought Taugri safely out from the ocean-depth, and you made Cyavāna young again.
उत् । वन्द॑नम् । ऐ॒र॒त॒म् । दं॒सना॑भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची॑भिः । निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति॑ । च्यवा॑नम् । च॒क्र॒थुः॒ । युवा॑नम् ॥उत् । वन्दनम् । ऐरतम् । दंसनाभिः । उत् । रेभम् । दस्रा । वृषणा । शचीभिः । निः । तौग्र्यम् । पारयथः । समुद्रात् । पुनरिति । च्यवानम् । चक्रथुः । युवानम् ॥ut | vandanam | airatam | daṃsanābhiḥ | ut | rebham | dasrā | vṛṣaṇā | śacībhiḥ | niḥ | taugryam | pārayathaḥ | samudrāt | punariti | cyavānam | cakrathuḥ | yuvānam