Sukta 1.118
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य । परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ॥
आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य । परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहन्त्वरु॒षा अ॒भीके॑ ॥
ā́ vāṁ ráthaṁ yuvatís tíṣṭhad átra juṣṭvī́ narā duhitā́ sū́ryasya | pári vā́m áśvā vápūṣaḥ pataṅgā́ váyo vahantv aruṣā́ abhī́ke ||
Here the young maiden, the Daughter of the Sun, takes her stand upon your chariot, O heroes, choosing you. Around you may the bright, winged horses—ruddy in near presence—carry the life-breath and the movement of being.
आ । वा॒म् । रथ॑म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र॑ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य॑स्य । परि॑ । वा॒म् । अश्वाः॑ । वपु॑षः । प॒त॒ङ्गाः । वयः॑ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके॑ ॥आ । वाम् । रथम् । युवतिः । तिष्ठत् । अत्र । जुष्ट्वी । नरा । दुहिता । सूर्यस्य । परि । वाम् । अश्वाः । वपुषः । पतङ्गाः । वयः । वहन्तु । अरुषाः । अभीके ॥ā | vām | ratham | yuvatiḥ | tiṣṭhat | atra | juṣṭavī | narā | duhitā | sūryasya | pari | vām | aśvāḥ | vapuṣaḥ | pataṅgāḥ | vayaḥ | vahantu | aruṣāḥ | abhīke