Sukta 1.118
आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः । ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥
आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शव॑: पतं॒गाः । ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥
ā́ vāṁ śyēnā́so aśvinā vahantu ráthe yuktā́sa āśávaḥ pataṅgā́ḥ | yé aptúro divyā́so ná gṛ́dhrā abhí práyo nāsatyā vahanti ||
May the falcons carry you, O Ashvins—swift winged ones yoked to the chariot—like radiant birds of heaven. Tireless in their reaching, like eagles, they bear toward you the offering-impulse, O Nāsatyas.
आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः । ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥आ । वाम् । श्येनासः । अश्विना । वहन्तु । रथे । युक्तासः । आशवः । पतङ्गाः । ये । अप्तुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वहन्ति ॥ā | vām | śyenāsaḥ | aśvinā | vahantu | rathe | yuktāsaḥ | āśavaḥ | pataṅgāḥ | ye | ap-turaḥ | divyāsaḥ | na | gṛdhrāḥ | abhi | prayaḥ | nāsatyā | vahanti