Sukta 1.118
प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः । किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑: । किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
pravad́yāmanā suvṛ́tā ráthena dasrā́vimáṁ śṛṇutaṁ ślókám adréḥ | kím aṅgá vāṁ práty avártíṁ gámiṣṭhā́hur víprāso aśvinā purājā́ḥ ||
Moving on the forward path with your well-turning chariot, O wondrous ones, hear this uttered word from the stone-like firmness (of concentrated being). Why, say the ancient seers, are you the swiftest to return in response, O Ashvins?
प्र॒वत्ऽया॑मना । सु॒ऽवृता॑ । रथे॑न । द॒स्रौ॒ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ । किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥प्रवत्यामना । सुवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः । किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराजाः ॥pravat-yāmanā | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ | kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purājāḥ