Sukta 1.117
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय । प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥
यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य । प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तम् ॥
yuváṃ śyā́vāya rúśatīm adattam maháḥ kṣóṇasyā aśvinā káṇvāya | prá-vācyaṃ tád vṛṣaṇā kṛtáṃ vāṃ yán nārṣadā́ya śrávo adhyádhattam ||
You two gave the shining one to Śyāva, O Ashvins, for the great Kṣoṇa, for Kaṇva; proclaimable is this deed of yours, O strong ones—when you set fame upon Nārṣadā, establishing the soul’s hearing of the true.
यु॒वम् । श्यावा॑य । रुश॑तीम् । अ॒द॒त्त॒म् । म॒हः । क्षो॒णस्य॑ । अ॒श्वि॒ना॒ । कण्वा॑य । प्र॒ऽवाच्य॑म् । तत् । वृ॒ष॒णा॒ । कृ॒तम् । वाम् । यत् । ना॒र्स॒दाय॑ । श्रवः॑ । अ॒धि॒ऽअध॑त्तम् ॥युवम् । श्यावाय । रुशतीम् । अदत्तम् । महः । क्षोणस्य । अश्विना । कण्वाय । प्रवाच्यम् । तत् । वृषणा । कृतम् । वाम् । यत् । नार्सदाय । श्रवः । अधिअधत्तम् ॥yuvam | śyāvāya | ruśatīm | adattam | mahaḥ | kṣoṇasya | aśvinā | kaṇvāya | pra-vācyam | tat | vṛṣaṇā | kṛtam | vām | yat | nārsadāya | śravaḥ | adhi-adhattam