Sukta 1.117
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय । घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥
यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय । घोषा॑यै चित्पितृ॒षदे॑ दुरो॒णे पतिं॒ जूर्य॑न्त्या अश्विनावदत्तम् ॥
yuváṃ narā stuvaté kṛṣṇiyā́ya viṣṇā́pvaṃ dadathur víśvakāya | ghóṣāyai cit pitṛṣáde duróṇe pátiṃ jū́ryantyā aśvināv adattam ||
You two, O lords, gave to the praising Kṛṣṇiya the all-pervading Viṣṇāpva; and to Ghoṣā—though she dwelt in the father’s house—you granted a husband when she was wasting away: thus you turn destiny toward fulfilment.
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय । घोषा॑यै । चि॒त् । पि॒तृ॒ऽसदे॑ । दु॒रो॒णे । पति॑म् । जूर्य॑न्त्यै । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥युवम् । नरा । स्तुवते । कृष्णियाय । विष्णाप्वम् । ददथुः । विश्वकाय । घोषायै । चित् । पितृसदे । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम् ॥yuvam | narā | stuvate | kṛṣṇiyāya | viṣṇāpvam | dadathuḥ | viśvakāya | ghoṣāyai | cit | pitṛ-sade | duroṇe | patim | jūryantyai | aśvinau | adattam