Sukta 1.117
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् । शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम् ॥
तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् । श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ मधू॑नाम् ॥
tád vām narā́ śáṃsyaṃ pajriyéṇa kakṣī́vatā nāsatyā párijman | śaphā́d aśvásya vājíno jánāya śatáṃ kumbhā́m̐ asiñcataṃ mádhūnām ||
This deed of yours is to be proclaimed, O Nāsatyas, by Kakṣīvat the Pajriya: from the hoof of the forceful steed you poured for the human being a hundred jars of honeyed sweetness—plenitude of delight and strength.
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । प॒ज्रि॒येण॑ । क॒क्षीव॑ता । ना॒स॒त्या॒ । परि॑ज्मन् । श॒फात् । अश्व॑स्य । वा॒जिनः॑ । जना॑य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू॑नाम् ॥तत् । वाम् । नरा । शंस्यम् । पज्रियेण । कक्षीवता । नासत्या । परिज्मन् । शफात् । अश्वस्य । वाजिनः । जनाय । शतम् । कुम्भान् । असिञ्चतम् । मधूनाम् ॥tat | vām | narā | śaṃsyam | pajriyeṇa | kakṣīvatā | nāsatyā | parijman | śaphāt | aśvasya | vājinaḥ | janāya | śatam | kumbhān | asiñcatam | madhūnām