Sukta 1.117
सुषुप्वांसं न निॠतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् । शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥
सु॒षु॒प्वांसं॒ न निॠ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त॑म् । शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वन्द॑नाय ॥
suṣupvā́ṃsaṃ ná nírṛter upásthe sū́ryaṃ ná dasrā támasi kṣiyántam | śubhé rukmáṃ ná darśatáṃ níkhātam úd ūpathur aśvinā vandánāya ||
As one lying in sleep in the lap of dissolution, as the sun dwelling in darkness, as a bright ornament buried from sight—you, O wondrous Ashvins, raised up Vandana, bringing him out again into the light of being.
सु॒षु॒प्वांस॑म् । न । निःऽऋ॑तेः । उ॒पऽस्थे॑ । सूर्य॑म् । न । द॒स्रा॒ । तम॑सि । क्षि॒यन्त॑म् । शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द॑नाय ॥सुषुप्वांसम् । न । निःऋतेः । उपस्थे । सूर्यम् । न । दस्रा । तमसि । क्षियन्तम् । शुभे । रुक्मम् । न । दर्शतम् । निखातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥suṣupvāṃsam | na | niḥ-ṛteḥ | upa-sthe | sūryam | na | dasrā | tamasi | kṣiyantam | śubhe | rukmam | na | darśatam | ni-khātam | ut | ūpathuḥ | aśvinā | vandanāya