Sukta 1.117
अश्वं न गूळ्हमश्विना दुरेवैॠषिं नरा वृषणा रेभमप्सु । सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥
अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒ॠषिं॑ नरा वृषणा रे॒भम॒प्सु । सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो॑भि॒र्न वां॑ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ॥
aśváṃ ná gūḷhám aśvinā durévaíḥ ṛ́ṣiṃ narā vṛṣaṇā rebhám apsú | sáṃ táṃ riṇītho víprutaṃ dáṃsobhir ná vām jūryanti pūrvyā́ kṛtā́ni ||
As one finds a hidden horse, so you, O Ashvins, strong lords, found and gathered up Rebha the seer in the waters, broken and scattered—by your powers of skill; your ancient deeds do not grow old.
अश्व॑म् । न । गू॒ळ्हम् । अ॒श्वि॒ना॒ । दुः॒ऽएवैः॑ । ऋषि॑म् । न॒रा॒ । वृ॒ष॒णा॒ । रे॒भम् । अ॒प्ऽसु । सम् । तम् । रि॒णी॒थः॒ । विऽप्रु॑तम् । दंसः॑ऽभिः । न । वा॒म् । जू॒र्य॒न्ति॒ । पू॒र्व्या । कृ॒तानि॑ ॥अश्वम् । न । गूळ्हम् । अश्विना । दुःएवैः । ऋषिम् । नरा । वृषणा । रेभम् । अप्सु । सम् । तम् । रिणीथः । विप्रुतम् । दंसःभिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि ॥aśvam | na | gūḷham | aśvinā | duḥ-evaiḥ | ṛṣim | narā | vṛṣaṇā | rebham | ap-su | sam | tam | riṇīthaḥ | vi-prutam | daṃsaḥ-bhiḥ | na | vām | jūryanti | pūrvyā | kṛtāni