Sukta 1.117
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन । मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥
ऋषिं॑ नरा॒वंह॑स॒: पाञ्च॑जन्यमृ॒बीसा॒दत्रिं॑ मुञ्चथो ग॒णेन॑ । मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दय॑न्ता ॥
ṛ́ṣiṃ narā́vaṃhasaḥ pā́ñcajanyam ṛbī́sād átriṃ muñcatho gaṇéna | minántā dásyor áśivasya māyā́ anupūrváṃ vṛṣaṇā codayántā ||
You two, O lords of manhood, released the seer Atri, belonging to the fivefold human kind, from the crushing distress, with your host of powers—breaking step by step the hostile deceiver’s harmful spells and driving forward the victorious advance.
ऋषि॑म् । न॒रौ॒ । अंह॑सः । पाञ्च॑ऽजन्यम् । ऋ॒बीसा॑त् । अत्रि॑म् । मु॒ञ्च॒थः॒ । ग॒णेन॑ । मि॒नन्ता॑ । दस्योः॑ । अशि॑वस्य । मा॒याः । अ॒नु॒ऽपू॒र्वम् । वृ॒ष॒णा॒ । चो॒दय॑न्ता ॥ऋषिम् । नरौ । अंहसः । पाञ्चजन्यम् । ऋबीसात् । अत्रिम् । मुञ्चथः । गणेन । मिनन्ता । दस्योः । अशिवस्य । मायाः । अनुपूर्वम् । वृषणा । चोदयन्ता ॥ṛṣim | narau | aṃhasaḥ | pāñca-janyam | ṛbīsāt | atrim | muñcathaḥ | gaṇena | minantā | dasyoḥ | aśivasya | māyāḥ | anu-pūrvam | vṛṣaṇā | codayantā