Sukta 1.117
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति । येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥
यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथ॒: स्वश्वो॒ विश॑ आ॒जिगा॑ति । येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातम् ॥
yó vām aśvinā manáso javī́yān ráthaḥ svaśvó víśa ā́jigāti | yéna gácchathaḥ sukṛ́to duróṇaṃ téna narā vartír asmábhyaṃ yātam ||
That chariot of yours, O Ashvins, swifter than the mind, well-horsed, that reaches the peoples—by that perfected movement with which you go to the well-built home, by that path of advance come to us, O two lords of manhood.
यः । वा॒म् । अ॒श्वि॒ना॒ । मन॑सः । जवी॑यान् । रथः॑ । सु॒ऽअश्वः॑ । विशः॑ । आ॒ऽजिगा॑ति । येन॑ । गच्छ॑थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । तेन॑ । न॒रा॒ । व॒र्तिः । अ॒स्मभ्य॑म् । या॒त॒म् ॥यः । वाम् । अश्विना । मनसः । जवीयान् । रथः । सुअश्वः । विशः । आजिगाति । येन । गच्छथः । सुकृतः । दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम् ॥yaḥ | vām | aśvinā | manasaḥ | javīyān | rathaḥ | su-aśvaḥ | viśaḥ | ājigāti | yena | gacchathaḥ | su-kṛtaḥ | duroṇam | tena | narā | vartiḥ | asmabhyam | yātam