Sukta 1.117
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् । त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥
हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तम् । त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥
híraṇyahastam aśvinā rarāṇā putráṁ narā vadhrimatýā adattam | trídhā ha śyā́vam aśvinā víkastam ujjī́vasa airayataṁ sudānū ||
O Ashvins, rejoicing, you gave to Vadhri-matī a son like a golden-handed one—O heroes. And the darkened Śyāva, broken and diminished, you raised up again for life, O generous givers.
हिर॑ण्यऽहस्तम् । च॒श्वि॒ना॒ । ररा॑णा । पु॒त्रम् । न॒रा॒ । व॒ध्रि॒ऽम॒त्याः । अ॒द॒त्त॒म् । त्रिधा॑ । ह॒ । श्याव॑म् । अ॒श्वि॒ना॒ । विऽक॑स्तम् । उत् । जी॒वसे॑ । ऐ॒र॒य॒त॒म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥हिरण्यहस्तम् । चश्विना । रराणा । पुत्रम् । नरा । वध्रिमत्याः । अदत्तम् । त्रिधा । ह । श्यावम् । अश्विना । विकस्तम् । उत् । जीवसे । ऐरयतम् । सुदानू इति सुदानू ॥hiraṇya-hastam | caśvinā | rarāṇā | putram | narā | vadhri-matyāḥ | adattam | tridhā | ha | śyāvam | aśvinā | vi-kastam | ut | jīvase | airayatam | sudānūitisu-dānū