Sukta 1.117
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे । अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥
सदा॑ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे । अ॒स्मे र॒यिं ना॑सत्या बृ॒हन्त॑मपत्य॒साचं॒ श्रुत्यं॑ रराथाम् ॥
sadā́ kavī sumatím ā́ cake vāṁ víśvā dhíyo aśvinā́ prā́vataṁ me | asmē rayím nāsatyā bṛhántam apatyasā́caṁ śrútyaṁ rarāthām ||
Ever, O seer-powers, I turn toward your gracious intelligence; O Ashvins, foster all my awakenings of thought. For us, O Nāsatyas, establish a vast fullness of being—one that carries the soul’s continuance and becomes a thing heard and remembered.
सदा॑ । क॒वी॒ इति॑ । सु॒ऽम॒तिम् । आ । च॒के॒ । वा॒म् । विश्वाः॑ । धियः॑ । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । मे॒ । अ॒स्मे इति॑ । र॒यिम् । ना॒स॒त्या॒ बृ॒हन्त॑म् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒था॒म् ॥सदा । कवी इति । सुमतिम् । आ । चके । वाम् । विश्वाः । धियः । अश्विना । प्र । अवतम् । मे । अस्मे इति । रयिम् । नासत्या बृहन्तम् । अपत्यसाचम् । श्रुत्यम् । रराथाम् ॥sadā | kavī iti | su-matim | ā | cake | vām | viśvāḥ | dhiyaḥ | aśvinā | pra | avatam | me | asme iti | rayim | nāsatyā bṛhantam | apatya-sācam | śrutyam | rarāthām