Sukta 1.117
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥
आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिर॒: प्रत्यै॑रयतम् । स वां॒ मधु॒ प्र वो॑चदृता॒यन्त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वाम् ॥
ātharvaṇā́yāśvinā dadhīcé’śvyaṁ śíraḥ práty airayatam | sá vāṁ mádhu prá vocad ṛtāyán tvā́ṣṭraṁ yád dasrāv apikakṣyáṁ vām ||
O Ashvins, to the Atharvan you raised up again the horse-head of Dadhīci. He then uttered to you the honeyed secret of Truth, the Tvaṣṭṛ-born (mystic knowledge) that was hidden in your inner recess, O wondrous ones.
आ॒थ॒र्व॑णाय । अ॒श्वि॒ना॒ । द॒धी॒चे । अश्व्य॑म् । शिरः॑ । प्रति॑ । ऐ॒र॒य॒त॒म् । सः । वा॒म् । मधु॑ । प्र । वो॒च॒त् । ऋ॒त॒ऽयन् । त्वा॒ष्ट्रम् । यत् । द॒स्रौ॒ । अ॒पि॒ऽक॒क्ष्य॑म् । वा॒म् ॥आथर्वणाय । अश्विना । दधीचे । अश्व्यम् । शिरः । प्रति । ऐरयतम् । सः । वाम् । मधु । प्र । वोचत् । ऋतयन् । त्वाष्ट्रम् । यत् । दस्रौ । अपिकक्ष्यम् । वाम् ॥ātharvaṇāya | aśvinā | dadhīce | aśvyam | śiraḥ | prati | airayatam | saḥ | vām | madhu | pra | vocat | ṛta-yan | tvāṣṭram | yat | dasrau | api-kakṣyam | vām