Sukta 1.117
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥
यवं॒ वृके॑णाश्विना॒ वप॒न्तेषं॑ दु॒हन्ता॒ मनु॑षाय दस्रा । अ॒भि दस्युं॒ बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥
yávaṃ vṛ́keṇāśvinā vapántéṣaṃ duhántā mánuṣāya dasrā | abhí dasyúṃ bakuréṇā dhámantor úru jyótiś cakrathur ā́ryāya ||
Sowing the barley with the plough, and milking forth the nourishing plenitude for man, O wondrous Ashvins—blowing upon the Dasyu with the bakura, you made a wide light for the Arya: a spacious clarity for the soul’s law.
यव॑म् । वृके॑ण । अ॒श्वि॒न॒ । वप॑न्ता । इष॑म् । दु॒हन्ता॑ । मनु॑षाय । द॒स्रा॒ । अ॒भि । दस्यु॑म् । बकु॑रेण । धम॑न्ता । उ॒रु । ज्योतिः॑ । च॒क्र॒थुः॒ । आर्या॑य ॥यवम् । वृकेण । अश्विन । वपन्ता । इषम् । दुहन्ता । मनुषाय । दस्रा । अभि । दस्युम् । बकुरेण । धमन्ता । उरु । ज्योतिः । चक्रथुः । आर्याय ॥yavam | vṛkeṇa | aśvina | vapantā | iṣam | duhantā | manuṣāya | dasrā | abhi | dasyum | bakureṇa | dhamantā | uru | jyotiḥ | cakrathuḥ | āryāya