Sukta 1.117
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् । युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥
अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गाम् । यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषा॑म् ॥
adhénuṃ dasrā staryáṃ víṣaktām ápinvataṃ śayáve aśvinā gā́m | yuváṃ śácībhir vimadā́ya jāyā́ṃ nyū́hathuḥ purumitrásya yóṣām ||
You, O wondrous Ashvins, made the non-milking cow—held back—flow with milk for Śayava. And by your effective powers you brought for Vimadā a bride, the maiden of Purumitra—joining the needed complement to the seeker.
अधे॑नुम् । द॒स्रा । स्त॒र्य॑म् । विऽस॑क्ताम् । अपि॑न्वतम् । श॒यवे॑ । अ॒श्वि॒ना॒ । गाम् । यु॒वम् । शची॑भिः । वि॒ऽम॒दाय॑ । जा॒याम् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योषा॑म् ॥अधेनुम् । दस्रा । स्तर्यम् । विसक्ताम् । अपिन्वतम् । शयवे । अश्विना । गाम् । युवम् । शचीभिः । विमदाय । जायाम् । नि । ऊहथुः । पुरुमित्रस्य । योषाम् ॥adhenum | dasrā | staryam | vi-saktām | apinvatam | śayave | aśvinā | gām | yuvam | śacībhiḥ | vi-madāya | jāyām | ni | ūhathuḥ | puru-mitrasya | yoṣām