Sukta 1.117
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः । अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः ॥
म॒ही वा॑मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः । अथा॑ यु॒वामिद॑ह्वय॒त्पुरं॑धि॒राग॑च्छतं सीं वृषणा॒ववो॑भिः ॥
mahī́ vāṃ ūtír aśvinā mayobhū́r utá srā́maṃ dhiṣṇyā sáṃ riṇīthaḥ | áthā yuvā́m íd ahvayat púraṃdhir ā́gacchataṃ sīm vṛ́ṣaṇāv ávobhiḥ ||
Great is your help, O Ashvins, bringing delight; and you set right even the failing and weariness, O wise ones. Therefore Purandhi indeed called you—come to her, O strong ones, with your aids and protections.
म॒ही । वा॒म् । ऊ॒तिः । अ॒श्वि॒ना॒ । म॒यः॒ऽभूः । उ॒त । स्रा॒मम् । धि॒ष्ण्या॒ । सम् । रि॒णी॒थः॒ । अथ॑ । यु॒वाम् । इत् । अ॒ह्व॒य॒त् । पुर॑म्ऽधिः । आ । अ॒ग॒च्छ॒त॒म् । सी॒म् । वृ॒ष॒णौ॒ । अवः॑ऽभिः ॥मही । वाम् । ऊतिः । अश्विना । मयःभूः । उत । स्रामम् । धिष्ण्या । सम् । रिणीथः । अथ । युवाम् । इत् । अह्वयत् । पुरम्धिः । आ । अगच्छतम् । सीम् । वृषणौ । अवःभिः ॥mahī | vām | ūtiḥ | aśvinā | mayaḥ-bhūḥ | uta | srāmam | dhiṣṇyā | sam | riṇīthaḥ | atha | yuvām | it | ahvayat | puram-dhiḥ | ā | agacchatam | sīm | vṛṣaṇau | avaḥ-bhiḥ