Sukta 1.117
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
मध्व॒: सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वाम् । ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजै॑: ॥
mádhvaḥ sómasyāśvinā madā́ya pratnó hótā vivāsate vām | barhíṣmatī rātír víśritā gī́r iṣā́ yātaṁ nāsatyópa vā́jaiḥ ||
For the delight of the honeyed Soma, O Aśvins, the ancient Hotṛ calls you to the offering. Spread out is the gift upon the barhis, and the word is set free with the impulsion of nourishment; come, O Nāsatyas, near with the vāja-forces—plenitudes of victorious energy.
मध्वः॑ । सोम॑स्य । अ॒श्वि॒ना॒ । मदा॑य । प्र॒त्नः । होता॑ । आ । वि॒वा॒स॒ते॒ । वा॒म् । ब॒र्हिष्म॑ती । रा॒तिः । विऽश्रि॑ता । गीः । इ॒षा । या॒त॒म् । ना॒स॒त्या॒ । उप॑ । वाजैः॑ ॥मध्वः । सोमस्य । अश्विना । मदाय । प्रत्नः । होता । आ । विवासते । वाम् । बर्हिष्मती । रातिः । विश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥madhvaḥ | somasya | aśvinā | madāya | pratnaḥ | hotā | ā | vivāsate | vām | barh iṣmatī | rātiḥ | vi-śritā | gīḥ | iṣā | yātam | nāsatyā | upa | vājaiḥ