Sukta 1.117
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य । वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥
अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममु॑ञ्चतं॒ वृक॑स्य । वि ज॒युषा॑ ययथु॒: सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥
ájohavīd aśvinā vártikā vām āsnó yát sīm ámuñcataṃ vṛ́kasya | ví jayúṣā yayathúḥ sānú adréḥ jātáṃ viṣvā́co ahataṃ viṣéṇa ||
Vartikā called you, O Ashvins, when you freed her from the wolf’s mouth. Then you went forth with victorious strength; and the all-devouring born upon the mountain-slope you struck down with your poison—your healer’s counter-force.
अजो॑हवीत् । अ॒श्वि॒ना॒ । वर्ति॑का । वा॒म् । आ॒स्नः । यत् । सी॒म् । अमु॑ञ्चतम् । वृक॑स्य । वि । ज॒युषा॑ । य॒य॒थुः॒ । सानु॑ । अद्रेः॑ । जा॒तम् । वि॒ष्वाचः॑ । अ॒ह॒त॒म् । वि॒षेण॑ ॥अजोहवीत् । अश्विना । वर्तिका । वाम् । आस्नः । यत् । सीम् । अमुञ्चतम् । वृकस्य । वि । जयुषा । ययथुः । सानु । अद्रेः । जातम् । विष्वाचः । अहतम् । विषेण ॥ajohavīt | aśvinā | vartikā | vām | āsnaḥ | yat | sīm | amuñcatam | vṛkasya | vi jayuṣā | yayathuḥ | sānu | adre | jātam | viṣvācaḥ | ahatam | viṣeṇa