Sukta 1.117
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् । निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥
अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्ह॑: समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् । निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥
ájohavīd aśvinā taugryó vāṃ próḷhaḥ samudrám avyathír jaganvān | níṣ ṭám ūhathuḥ suyújā ráthena manójavasā vṛ́ṣaṇā svastí ||
Taugrya called you, O Ashvins, when he was carried far into the sea, moving without support. You bore him out—by your well-yoked chariot, swift as mind—O strong ones, into safety and well-being.
अजो॑हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्रऽऊ॑ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् । निः । तम् । ऊ॒ह॒थुः॒ । सु॒ऽयुजा॑ । रथे॑न । मनः॑ऽजवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥अजोहवीत् । अश्विना । तौग्र्यः । वाम् । प्रऊळ्हः । समुद्रम् । अव्यथिः । जगन्वान् । निः । तम् । ऊहथुः । सुयुजा । रथेन । मनःजवसा । वृषणा । स्वस्ति ॥ajohavīt | aśvinā | taugryaḥ | vām | pra-ūḷhaḥ | samudram | avyathiḥ | jaganvān | niḥ | tam | ūhathuḥ | su-yujā | rathena | manaḥ-javasā | vṛṣaṇā | svasti