Sukta 1.117
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा । हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥
कुह॒ यान्ता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा । हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥
kuhá yā́ntā suṣṭutíṃ kāvyásya dívo napātā vṛ́ṣaṇā śayutrā | híraṇyasyeva kaláśaṃ níkhātam udū́pathur daśamé aśvinā́han ||
Where have you gone, O Ashvins, to the well-shaped praise of the seer’s vision, O sons of Heaven, strong ones, swift in your movement? You brought up, as one lifts a buried golden vessel, the hidden delight from below—O Ashvins, in the tenth day you raised it into the open.
कुह॑ । यान्ता॑ । सु॒ऽस्तु॒तिम् । का॒व्यस्य॑ । दिवः॑ । न॒पा॒ता॒ । वृ॒ष॒णा॒ । श॒यु॒ऽत्रा । हिर॑ण्यस्यऽइव । क॒लश॑म् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । द॒श॒मे । अ॒श्वि॒ना॒ । अह॑न् ॥कुह । यान्ता । सुस्तुतिम् । काव्यस्य । दिवः । नपाता । वृषणा । शयुत्रा । हिरण्यस्यइव । कलशम् । निखातम् । उत् । ऊपथुः । दशमे । अश्विना । अहन् ॥kuha | yāntā | su-stutim | kāvyasya | divaḥ | napātā | vṛṣaṇā | śayu-trā | hiraṇyasya-iva | kalaśam | ni-khātam | ut | ūpathuḥ | daśame | aśvinā | ahan