Sukta 1.117
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता । अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥
सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रद॑न्ता । अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतम् ॥
sūnór mā́nenāśvinā gṛṇānā́ vā́jaṃ víprāya bhuraṇā́ rádantā | agastyé bráhmaṇā vāvṛdhānā́ sáṃ viśpálāṃ nāsatyā riṇītam ||
Singing with the measure of the Son, O Ashvins, granting vāja to the inspired seer, increasing by Agastya’s brahman—you, O Nāsatyas, set in order and restored Viśpalā: you make whole what is maimed in the journey.
सू॒नोः । माने॑न । अ॒श्वि॒ना॒ । गृ॒णा॒ना । वाज॑म् । विप्रा॑य । भु॒र॒णा॒ । रद॑न्ता । अ॒गस्त्ये॑ । ब्रह्म॑णा । व॒वृ॒धा॒ना । सम् । वि॒श्पला॑म् । ना॒स॒त्या॒ । अ॒र्ण्त्म् ॥सूनोः । मानेन । अश्विना । गृणाना । वाजम् । विप्राय । भुरणा । रदन्ता । अगस्त्ये । ब्रह्मणा । ववृधाना । सम् । विश्पलाम् । नासत्या । अर्ण्त्म् ॥sūnoḥ | mānena | aśvinā | gṛṇānā | vājam | viprāya | bhuraṇā | radantā | agastye | brahmaṇā | vavṛdhānā | sam | viśpalām | nāsatyā | arṇtm