Sukta 1.117
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥
ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मा॑ङ्गू॒षं सद॑नं॒ रोद॑स्योः । यद्वां॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥
etā́ni vām śravasyā́ sudānū bráhmāṅgū́ṣaṃ sádanaṃ ródasyoḥ | yád vām pajrā́so aśvinā hávante yātám iṣā́ ca vidúṣe ca vā́jam ||
These are your deeds of inspired renown, O bounteous ones—this brahman-utterance, this seat between the two worlds. When the Pajras call you, O Ashvins, come with the power of increase and with vāja for the one who knows.
ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः । यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । य॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥एतानि । वाम् । श्रवस्या । सुदानू इति सुदानू । ब्रह्म । आङ्गूषम् । सदनम् । रोदस्योः । यत् । वाम् । पज्रासः । अश्विना । हवन्ते । यतम् । इषा । च । विदुषे । च । वाजम् ॥etāni | vām | śravasyā | sudānūitisu-dānū | brahma | āṅgūṣam | sadanam | rodasyoḥ | yat | vām | pajrāsaḥ | aśvinā | havante | yatam | iṣā | ca | viduṣe | ca | vājam