Sukta 1.116
परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम् । क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥
परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् । क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥
párāvatáṃ nāsatyā anudethām uccā́budhnaṃ cakrathur jihmá-bāram | kṣárann ā́paḥ na pā́yanāya rā́ye sahásrāya tṛ́ṣyate gótamasya ||
You Nāsatyas followed him even to the farthest distance; you made firm the high-based support that had become crooked in its burden. Like waters streaming to their drinking-place, you brought the flowing means of increase for Gotama who thirsted for the thousandfold plenitude.
परा॑ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चाऽबु॑ध्नम् । च॒क्र॒थुः॒ । जि॒ह्मऽबा॑रम् । क्षर॑न् । आपः॑ । न । पा॒यना॑य । रा॒ये । स॒हस्रा॑य । तृष्य॑ते । गोत॑मस्य ॥परा । अवतम् । नासत्या । अनुदेथाम् । उच्चाबुध्नम् । चक्रथुः । जिह्मबारम् । क्षरन् । आपः । न । पायनाय । राये । सहस्राय । तृष्यते । गोतमस्य ॥parā | avatam | nāsatyā | anudethām | uccābudhnam | cakrathuḥ | jihma-bāram | kṣaran | āpaḥ | na | pāyanāya | rāye | sahasrāya | tṛṣyate | gotamasya