Sukta 1.116
हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् । ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् । ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथु॒: सर्व॑गणं स्व॒स्ति ॥
himénāgníṃ ghraṃsám avārayethāṃ pitu-mátīm ūrjáṃ asmā adhattam | ṛbī́se átrim aśvināv ava-nītám ún ninyathuḥ sárva-gaṇaṃ svastí ||
With the cold you warded off the scorching fire, and you set in him the nourishing strength that is rich in sustenance. Atri, sunk down in the pit, you Ashvins lifted up—bringing his whole company into well-being and safety.
हि॒मेन॑ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒ऽमती॒म् । ऊर्ज॑म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् । ऋ॒बीसे॑ । अत्रि॑म् । अ॒श्वि॒ना॒ । अव॑ऽनीतम् । उत् । नि॒न्य॒थुः॒ । सर्व॑ऽगणम् । स्व॒स्ति ॥हिमेन । अग्निम् । घ्रंसम् । अवारयेथाम् । पितुमतीम् । ऊर्जम् । अस्मै । अधत्तम् । ऋबीसे । अत्रिम् । अश्विना । अवनीतम् । उत् । निन्यथुः । सर्वगणम् । स्वस्ति ॥himena | agnim | ghraṃsam | avārayethām | pitu-matīm | ūrjam | asmai | adhattam | ṛbīse | atrim | aśvinā | ava-nītam | ut | ninyathuḥ | sarva-gaṇam | svasti