Sukta 1.116
जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् । प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् । प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥
jujuruṣó nāsatyóta vavríṃ prā́muñcataṃ drā́pim iva cyávānāt | prā́t irataṃ jahitásyā́yur dasrā́dit pátim akṛṇutaṃ kanī́nām ||
You Nāsatyas, even for the worn and failing one, loosened the enclosing sheath from Cyavāna as one strips off a skin. You carried forward again the life that had been abandoned; and, O wonder-workers, you made him once more the husband—master of youthful powers.
जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् । प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥जुजुरुषः । नासत्या । उत । वव्रिम् । प्र । अमुञ्चतम् । द्रापिम्इव । च्यवानात् । प्र । अतिरतम् । जहितस्य । आयुः । दस्रा । आत् । इत् । पतिम् । अकृणुतम् । कनीनाम् ॥jujuruṣaḥ | nāsatyā | uta | vavrim | pra | amuñcatam | drāpim-iva | cyavānāt | pra | atiratam | jahitasya | āyuḥ | dasrā | āt | it | patim | akṛṇutam | kanīnām