Sukta 1.116
युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम् । कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः ॥
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् । का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्ण॑: श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥
yuváṃ narā stuvaté pajriyā́ya kakṣī́vate aradataṃ púraṃdhim | kārotarā́c chaphā́d áśvasya vṛ́ṣṇaḥ śatáṃ kúmbhāṃ asiñcataṃ surā́yāḥ ||
You two, O strong Lords, to the praising Kakṣīvant of the Pajra line, brought Purandhi, the power of plenitude. From the hoof of the vigorous stallion you caused a hundred jars of surā to stream forth—an overflowing delight that nourishes the seeker’s increase.
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय॑ । क॒क्षीव॑ते । अ॒र॒द॒त॒म् । पुर॑म्ऽधिम् । का॒रो॒त॒रात् । श॒फात् । अश्व॑स्य । वृष्णः॑ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा॑याः ॥युवम् । नरा । स्तुवते । पज्रियाय । कक्षीवते । अरदतम् । पुरम्धिम् । कारोतरात् । शफात् । अश्वस्य । वृष्णः । शतम् । कुम्भान् । असिञ्चतम् । सुरायाः ॥yuvam | narā | stuvate | pajriyāya | kakṣīvate | aradatam | puram-dhim | kārotarāt | śaphāt | aśvasya | vṛṣṇaḥ | śatam | kumbhān | asiñcatam | surāyāḥ