Sukta 1.116
यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति । तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥
यम॑श्विना द॒दथु॑: श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति । तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
yám aśvinā dádathuḥ śvetám aśvám aghā́śvāya śáśvad ít svastí | tád vāṃ dātráṃ máhi kīrtényam bhūt paidvó vājī sádham íd dhávyó aryáḥ ||
The white horse you gave, O Aśvins, to Aghāśva, for enduring well-being. Great and worthy of acclaim was that gift of yours; thus Paidva, the winner in force, became ever a fit offerer, a noble one. So grant us too the ‘white horse’—the pure impulsion of illumined energy—so that lasting welfare is established and our offering-life becomes steadfast and noble.
यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति । तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥यम् । अश्विना । ददथुः । श्वेतम् । अश्वम् । अघअश्वाय । शश्वत् । इत् । स्वस्ति । तत् । वाम् । दात्रम् । महि । कीर्तेन्यम् । भूत् । पैद्वः । वाजी । सदम् । इत् । हव्यः । अर्यः ॥yam | aśvinā | dadathuḥ | śvetam | aśvam | agha-aśvāya | śaśvat | it | svasti | tat | vām | dātram | mahi | kīrtenyam | bhūt | paidvaḥ | vājī | sadam | it | havyaḥ | aryaḥ