Sukta 1.116
अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे । यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥
अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे । यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥
anārambhaṇé tád avīrayethām anāsthā́ne agrabhaṇé samudré | yád aśvinā ūháthur bhujyúm ástaṃ śatā́ritrāṃ nā́vam ātasthivā́ṃsam ||
In a supportless place you made that heroism; in a footholdless, graspless ocean—when you bore Bhujyu to his home, standing upon a ship with a hundred oars. So in our supportless moments, when the mind finds no hold, manifest the same power: give us the vessel of ordered will with many instruments, and carry us to the safe home of the soul.
अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे । यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः॑ । भु॒ज्युम् । अस्त॑म् । श॒तऽअ॑रित्रान् । नाव॑म् । आ॒त॒स्थि॒वांस॑म् ॥अनारम्भणे । तत् । अवीरयेथाम् । अनास्थाने । अग्रभणे । समुद्रे । यत् । अश्विना । ऊहथुः । भुज्युम् । अस्तम् । शतअरित्रान् । नावम् । आतस्थिवांसम् ॥anārambhaṇe | tat | avīrayethām | anāsthāne | agrabhaṇe | samudre | yat | aśvinā | ūhathuḥ | bhujyum | astam | śata-aritrān | nāvam | ātasthivāṃsam