Sukta 1.116
तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः । समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथै॑: श॒तप॑द्भि॒: षळ॑श्वैः ॥
tísraḥ kṣápaḥ trír áhā ativrájadbhir nā́satyā bhujyúm ūhathuḥ pataṅgáiḥ | samudrásya dhánvann ārdrásya pā́re tribhír ráthaiḥ śatápatadbhiḥ ṣáḷaśvaiḥ ||
For three nights and three days, speeding onward, O Nāsatyas, you bore Bhujyu with winged carriers. Across the ocean’s waste, to the far shore of the moist realm, with three chariots, hundred-footed, six-horsed—thus you made the long crossing. So may you carry our consciousness through extended darkness and extended light, until it reaches the farther shore where life becomes a stable plenitude.
ति॒स्रः । क्षपः॑ । त्रिः । अहा॑ । अ॒ति॒व्रज॑त्ऽभिः । नास॑त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः । स॒मु॒द्रस्य॑ । धन्व॑न् । आ॒र्द्रस्य॑ । पा॒रे । त्रि॒ऽभिः । रथैः॑ । श॒तप॑त्ऽभिः । षट्ऽअ॑श्वैः ॥तिस्रः । क्षपः । त्रिः । अहा । अतिव्रजत्भिः । नासत्या । भुज्युम् । ऊहथुः । पतङ्गैः । समुद्रस्य । धन्वन् । आर्द्रस्य । पारे । त्रिभिः । रथैः । शतपत्भिः । षट्अश्वैः ॥tisraḥ | kṣapaḥ | triḥ | ahā | ativrajat-bhiḥ | nāsatyā | bhujyum | ūhathuḥ | pataṅgaiḥ | samudrasya | dhanvan | ārdrasya | pāre | tri-bhiḥ | rathaiḥ | śatapat-bhiḥ | ṣaṭ-aśvaiḥ