Sukta 1.116
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः । तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
túgro ha bhujyúm aśvinodaméghe rayíṃ na káścin mamṛvā́ṃ avā́hāḥ | tám ūhathur naúbhir ātmanvátībhiḥ antarikṣaprúdbhir apóudakābhiḥ ||
Tugra, O Aśvins, cast down Bhujyu in the surging flood, as one might lose a treasure with no rescuer near. But you bore him up with self-guided ships that traverse the mid-world, moving on waters even where there is no water. So lift us too from the inundation of confusion, by your marvellous means that carry consciousness through seemingly impossible passages.
तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवाम् । अव॑ । अ॒हाः॒ । तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥तुग्रः । ह । भुज्युम् । अश्विना । उदमेघे । रयिम् । न । कः । चित् । ममृवाम् । अव । अहाः । तम् । ऊहथुः । नौभिः । आत्मन्वतीभिः । अन्तरिक्षप्रुत्भिः । अपउदकाभिः ॥tugraḥ | ha | bhujyum | aśvinā | uda-meghe | rayim | na | kaḥ | cit | mamṛ-vām | ava | ahāḥ | tam | ūhathuḥ | naubhiḥ | ātman-vatībhiḥ | antarikṣaprut-bhiḥ | apa-udakābh iḥ