Sukta 1.116
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना । तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभि॒: शाश॑दाना । तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥
vīḷupátmabhir āśuhémabhir vā devā́nāṃ vā jūtíbhiḥ śā́śadānā | tád rāsábho nāsatyā sahásram ā́jā yámasya pradháne jigāya ||
With firm-flying strides or with swift-golden impulses, or with the rush of the gods’ own speeds, pressing ever onward—thus, O Nāsatyas, the ass won a thousand in the contest of Yama. So too let your powers in us win abundance of force from the realm of limitation and deathward habit, by the victorious advance of right energy.
वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना । तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥वीळुपत्मभिः । आशुहेमभिः । वा । देवानाम् । वा । जूतिभिः । शाशदाना । तत् । रासभः । नासत्या । सहस्रम् । आजा । यमस्य । प्रधने । जिगाय ॥vīḷupatma-bhiḥ | āśuhema-bhiḥ | vā | devānām | vā | jūti-bhiḥ | śāśadānā | tat | rāsabhaḥ | nāsatyā | sahasram | ājā | yamasya | pra-dhane | jigāya