Sukta 1.116
दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः । विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः । विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथु॒: सोम॑मिव स्रु॒वेण॑ ॥
dáśa rā́trīr áśivena náva dyū́n avánaddhaṁ śnathitám apsv àntáḥ | víprutaṁ rebhám udáni právṛktam ún ninyathuḥ sómam iva sruvéṇa ||
For ten nights and nine days, bound down and wounded within the waters, Rebha—scattered and cast away—was lifted up by you, as Soma is drawn out with the ladle: you brought the submerged consciousness back into the open light.
दश॑ । रात्रीः॑ । अशि॑वेन । नव॑ । द्यून् । अव॑ऽनद्धम् । श्न॒थि॒तम् अ॒प्ऽसु । अ॒न्तरिति॑ । विऽप्रु॑तम् । रे॒भम् । उ॒दनि॑ । प्रऽवृ॑क्तम् । उत् । नि॒न्य॒थुः॒ । सोम॑म्ऽइव स्रु॒वेण॑ ॥दश । रात्रीः । अशिवेन । नव । द्यून् । अवनद्धम् । श्नथितम् अप्सु । अन्तरिति । विप्रुतम् । रेभम् । उदनि । प्रवृक्तम् । उत् । निन्यथुः । सोमम्इव स्रुवेण ॥daśa | rātrīḥ | aśivena | nava | dyūn | ava-naddham | śnathitam ap-su | antariti | vi-prutam | rebham | udani | pra-vṛktam | ut | ninyathuḥ | somam-iva sruveṇa