Sukta 1.116
अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः । प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
avasyaté stuvaté kṛṣṇiyā́ya ṛjúyaté nāsatyā śácībhiḥ | paśúṁ na naṣṭám iva dárśanāya viṣṇā́pvaṁ dadathur víśvakāya ||
To Kṛṣṇiyā who seeks and praises, to the straight-going one, O Nāsatyas, by your effective powers you gave Viṣṇā́pva to Viśvakā—like a lost creature restored to sight—bringing back what had disappeared from the field of consciousness.
अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः । प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥अवस्यते । स्तुवते । कृष्णियाय । ऋजुयते । नासत्या । शचीभिः । पशुम् । न । नष्टम्इव । दर्शनाय । विष्णाप्वम् । ददथुः । विश्वकाय ॥avasyate | stuvate | kṛṣṇiyāya | ṛju-yate | nāsatyā | śacībhiḥ | paśum | na | naṣṭam-iva | darśanāya | viṣṇāpvam | dadathuḥ | viśvakāya