Sukta 1.116
प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः । उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥
प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पति॑: स्यां सु॒गव॑: सु॒वीर॑: । उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥
prá vāṁ daṁsā́ṁsy aśvināv avocam asyá pátiḥ syāṁ sugávaḥ suvī́raḥ | utá páśyann aśnuván dīrghám ā́yur ástam ivéj jarimā́ṇaṁ jagamyām ||
I have proclaimed your mighty deeds, O Aśvins. May I be master of this—rich in luminous herds and rich in heroic force; and seeing, attaining a long life, may I go to old age as to a home at evening—without loss of inner light.
प्र । वा॒म् । दंसां॑सि । अ॒स्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः॑ । स्या॒म् । सु॒ऽगवः॑ । सु॒ऽवीरः॑ । उ॒त । पश्य॑न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः॑ । अस्त॑म्ऽइव । इत् । ज॒रि॒माण॑म् । ज॒ग॒म्या॒म् ॥प्र । वाम् । दंसांसि । अस्विनौ । अवोचम् । अस्य । पतिः । स्याम् । सुगवः । सुवीरः । उत । पश्यन् । अश्नुवन् । दीर्घम् । आयुः । अस्तम्इव । इत् । जरिमाणम् । जगम्याम् ॥pra | vām | daṃsāṃsi | asvinau | avocam | asya | patiḥ | syām | su-gavaḥ | su-vīraḥ | uta | paśyan | aśnuvan | dīrgham | āyuḥ | astam-iva | it | jarimāṇam | jagamyām